02
श्रीधरः स्वामी

भारतदेशः यथा कर्मभूमिः पुण्यभूमिः त्यागभूमिः तथैव योगभूमिः अपि अस्ति । अत्र नैके योगिनः सम्भूय इमां भूमिं पावनीं कृतवन्तः । महर्षयः, यतयः, सन्यासिनः, पीठाधिपतयः अस्याम् वेदभूमौ सञ्जन्य सनातनधर्मस्य रक्षणं पुनरुत्थनं मार्गदर्शनं च कृतवन्तः । तेषु अन्यतमः परिव्राट् श्रीमत् श्रीधरस्वामी इति कश्चित् लीलावान् दैवांशसम्भूतः ।

पृष्ठभूमिः बाल्यम् च

भगवान् श्रीधरस्वामी कर्णाटके स्थितः कश्चन महिमान्वितः सन्न्यासी । महाराष्ट्रे नान्देडमण्ड्ले देगलूरुग्रामे पातकी इति उपनामान्वितः वंशः आसीत् । ऋग्वेदस्य अश्वलायन शाखायाः आचरणनिष्ठानां भक्तिपरायणानां देशस्थब्राह्मणानां तेजस्विनि कुले श्रीनारायणरायः कमलाबायी इति आदर्शदम्बती आस्ताम् । एतयोः द्वौ पुत्रौ एका पुत्री च आसन् । किन्तु ते अल्पायुष्मन्तः गाणगापुरं गत्वा दत्तगुरोः सेवां करोति चेत् कुलोद्धारकपुत्रस्य प्राप्तेः योगः आगमिष्यति इति ज्योतिष्केण उक्तः । अतः एतौ दम्पती गाणगापुरं गत्वा उग्रं तपः आचर्य श्री दत्तगुरोः साक्षात्कारं प्राप्तवन्तौ । निवृत्तिमार्गस्य कुलोद्धारकं विश्वमङ्गलकारकं च पुत्रसन्तानं भविष्यति इति दत्तात्रेयः वरम् अनुगृहीतवान् । कालक्रमेण सम्भूतां गर्भवतीं कमलाबयीं तस्याः माता द्वितीयपुत्र्याः गृहं नीतवती । तद्गृहं तु कर्णाटकराज्यस्य गुलबर्गामण्डले गाणगपुरतः २५ कि.मी. दूरे आसीत् । तस्मिन् गृहे शालिवाहनशके १८३० तमे वर्षे मार्गशीर्षमासस्य पौर्णिमायां दत्तजननस्य सुमुहूर्ते एव परब्रह्मरूपिणः श्रीधस्य जन्म अभवत् ।

गुरुदर्शनं शिक्षा च

श्रीधरस्य बाल्ये हरिकथाकीर्तनम्, सत्सङ्गः, देवतासङ्कीर्तनम्, पुरणप्रवचनम् इत्यादिषु अतीव आसक्तिः आसीत् । सनातनधर्मस्य अध्यात्मविद्यायाः विषये अस्य अधिकाभिरुचिः आसीत् । भगवति अचला श्रद्धा, भक्तिः, निष्टा च आसन् । मुखे सर्वदा रामनाम क्रीडति स्म । अस्य द्वादशे वयसि अस्य माता अग्रजा पिता सर्वे अकालमृत्युम् अवाप्नुवन् । श्रीधरस्य बाल्यं विद्याभ्यासः च गुलबर्गाप्रदेशस्य नूतनविद्यालये पुण्यपत्तनस्य (पुणे) अनन्तपुरस्य अनाथविद्यार्थिगृहे, भावे विद्यालये च अभवत् । श्रीदरस्य दिनात् दिनम् अध्यात्मविद्यायां रुचिः संवृद्धः । नश्वररायाः लौकिकविद्यायाः अर्जने समयहरण्स्यापेक्षया शाश्वतस्याः आत्मविद्यायाः आर्जने समयः विनियोजितः चेत् द्रुतम् आत्मसाक्षात्कारः लोकोद्धारः च भविष्यतः इत् निश्चित्य केवलं कौपीनवान् श्रीक्षेत्रं सज्जनगडं गतवान् । तत्र गभीरं तपः आरचरन्तः श्रीधरस्य समर्थरामदासस्य दर्शनम् अभवत् । सः श्रीधराय भगवान् इति उपाधिं दत्त्वा धर्मजागरणार्थं दक्षिणप्रान्तं गच्छतु इति आदिशत् ।

विद्याभ्यासः , गुरुदर्शनं च

श्रीधरस्य बाल्यं तथा विद्याभ्यासः गुल्बर्गस्य ‘नूतनविद्यालये’ अनन्तरं पुणेनगरस्य ‘अनाथविद्यार्थिगृहे’ ‘भावेविद्यालये’ च अभवत् श्रीधरस्य दिने दिने आध्यात्मविद्यायां अभिरुचिः वर्धिता । एतां नश्वरविद्यास्थाने शाश्वतीं विद्यां यदि अभ्यस्यामि, तर्हि सपदि आत्मसाक्षात्कारः, तेन लोकोद्धरार्थं पूर्णसामार्थ्यं च लभेत इति निश्चीय श्रीक्षेत्रं सज्जनगडं केवलं कौपीनमात्रं धृत्वा गुरुसेवारूपि तपः तप्तुं गतवान् ।तत्र कठिणं तपः तप्त्वा श्रीसमर्थमहोदयस्य प्रत्यक्षदर्शनम् अभवत् । सः श्रीधरं भगवान् इति नाम प्रदत्तवान् । धर्मजागृत्यर्थं दक्षिणदिशं गन्तुम् उक्तवान् ।

प्रवासः धर्मजागरणं च

गुरोः वचनम् आदृत्य कर्णाटकस्य उत्तरकन्नडमण्डलस्य शिरसि, गोकर्णम्, शिगेहळ्ळि इत्यादिप्रदेशं गतवान् । तत्र श्री शिवानन्दसरस्वतीस्मामिनः साहचर्येण कञ्चित्कालं स्थित्वा शिवमोग्गमण्डलस्य कुटचाद्रि,शिरसिसमीपस्य कोळगीबीस् इत्यादिशु प्रदेशेषु सञ्चारम् अकरोत् । पश्चात् शालिवाहनशके १८६४तमे वर्षे (क्रि.श. १९४२) चित्रभानुसंवत्सरस्य विजयदशम्यां शीगेहळ्ळिग्रामे तुरीयाश्रमं स्वीकृतवान् । एतत्पश्चात् श्रीमत् परमहं सपरिव्राजकार्यसद्गुरुः भागवान् श्रीधरस्वामी महाराजः इति ख्यातः चिक्कमगळूरु,कळले, मङ्गळूरु, काशी, उत्तरकाशी, कन्याकुमारी, अयोध्या, बदरिकाश्रमः, द्वारका, गिरिनार्, कुरगड्डे, सज्जनगड, वरदपुरम्, इत्यादिषु प्रदेशेषु प्रवासं वसतिं चातुमास्यव्रतं च कृतवान् । आसेतुहिमाचलम् सञ्चर्य बहुत्र देवालयानं जीर्णोद्धरम् अकारयत् । पुरपत्तननगरेषु च अटन् भक्तेभ्यः दर्शनं दत्त्वा धर्मं, भक्तिं, ध्यानं, ज्ञानं वैराज्यं च बोधयन् धर्मजागरम् अकरोत् । शर्कराखण्डेषु पिपिलिकाः यथा अवचिताः भवन्ति तथा देशे सर्वत्र अस्य सन्निधौ भक्ताः सम्मिलन्ति स्म । अर्थार्थिनः, जिज्ञसवः, समस्याबाधिताः चागच्छन्ति स्म । सर्वेषाम् इष्टार्थपूर्तेः मार्गम् उपदिशति स्म ।

वरदपुरवासः

एवं देशपर्यटनं कुर्वन् श्रीधरस्वामी कर्णाटकस्य शिवमोग्गमण्डलस्य सागरजनपदस्य स्मीपे वरदपुरम् (वरदहळ्ळी) आगच्छत् । रमणीयं पवित्रं प्रशान्तं च एतत् स्थानं वीक्ष्य सन्तुष्टः कुटीरं कारयित्वा तत्रैव चाचुर्मास्यम् आरब्धवान् । अस्मिन् एव स्थाने विजयदशम्याः सुमुहूर्ते धर्मध्वजं संस्थाप्य अस्य स्थलस्य श्रीधराश्रमः इति नामकरणम् अकरोत् । तत् पश्चात् तत्र अनेकान् धार्मिककार्यक्रमान् समचालयत् ।

कदाचित् ते सागरस्य सागरस्य समीपे”वरदपुरं’ ’(वरदहळ्ळि)’ क्षेत्रं गतवन्तः । परमपवित्रे, रमणीये, अस्मिन् स्थाने एकं कुटीरं निर्मीय तत्र चातुर्मास्यव्रतं आरब्धवन्तः । बहुदिनेभ्यःस्वध्येयस्य कार्यार्थं च उचितं स्वतन्त्रं स्थानं अन्विषन्तः आसन् । एतस्मिन् चातुर्मस्यसमये विजयदशम्याः शुभे मुहूर्ते धर्मध्वजं संस्थाप्य अस्य ’श्रीधराश्रमः’ इति नामकरणम् अपि कृतवन्तः ।

एकान्तः निर्याणञ्च

एवं धर्मजागृतिं कुर्वन्तः, कदाचित् स्वामिनां मनसि आगता इच्छा यत् किञ्चित् कालं एकान्तवासः करणीयः इति । तदनुगुणं ते वरदपुरे तथा अन्यत्र च एकान्तवासं कृतवन्तः । अनन्तरं पञ्चवर्षाणि यावत् एकान्ते भवितव्यं इति निश्चीय वरदपुरस्य श्रीधरतीर्थस्य उपरि एकान्तार्थं नूतनतया निर्मिते कुटीरे एकान्तवासं आरब्धवन्तः । चत्वारि वर्षाणि तपः तप्त्वा पञ्चमे वर्षे स्वामिनः देहत्यागविषये केषाञ्चन भक्तानां समीपे परोक्षरूपेण सूचितवन्तः ।। तदा तेषु केचन एतं विषयं न ज्ञातवन्तः । अन्ते स्वामिनः शालिवाहनशके १८९५ तमे प्रमादिनाम संवत्सरे चैत्र वद्ये द्वितीये गुरुवासरे (दिनाङ्कः १९-४-७३) प्रातः स्वामिनः ध्यानस्थः भौतिकं शरीरं त्यक्त्वा सच्चिदानन्दस्वरूपे लीनाः अभवन् ।

श्रीधराश्रमः

कदाचित् ते सागरस्य सागरस्य समीपे”वरदपुरं’ ’(वरदहळ्ळि)’ क्षेत्रं गतवन्तः । परमपवित्रे, रमणीये, अस्मिन् स्थाने एकं कुटीरं निर्मीय तत्र चातुर्मास्यव्रतं आरब्धवन्तः । बहुदिनेभ्यःस्वध्येयस्य कार्यार्थं च उचितं स्वतन्त्रं स्थानं अन्विषन्तः आसन् । एतस्मिन् चातुर्मस्यसमये विजयदशम्याः शुभे मुहूर्ते धर्मध्वजं संस्थाप्य अस्य ’श्रीधराश्रमः’ इति नामकरणम् अपि कृतवन्तः ।

॥ नमः शान्ताय दिव्याय सत्यधर्मस्वरुपिणे । स्वानंदामृततृप्ताय श्रीधराय नमो नमः ॥